📚 तर्कसंग्रहः (अन्नम्भट्टः)
Page 1
Download 📥
________________ Please do not take unnecessary printouts ।। श्रीरस्तु ।। श्रीमदन्नम्भट्टविरचितः तर्कसङ्ग्रहः (मूलपाठ: ) निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्। बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥ द्रव्य-गुण-कर्म- सामान्य- विशेष - समवायाभावाः सप्त पदार्थाः । तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव । रूप-रस- गन्ध- -स्पर्श-सङ्ख्या-परिमाण - - पृथक्त्व- व-संयोग- विभाग- परत्वापरत्व- गुरुत्व - द्रवत्व- स्नेह - शब्द - बुद्धि-सुख - दुःखेच्छा- द्वेष - 1 - प्रयत्न-धर्माधर्म-संस्काराश्चतुर्विंशतिर्गुणाः । उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि । परमपरं चेति द्विविधं सामान्यम् । नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव । समवायस्त्वेक एव । अभावश्चतुर्विधः-प्रागभावः प्रध्वंसाभावो ऽत्यन्ताभावो ऽन्योन्या- भावश्चेति । तत्र गन्धवती पृथिवी । सा द्विविधा । नित्या अनित्या च । नित्या परमाणुरूपा, अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रिय- विषयभेदात्। शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्पाषाणादिः । शीतस्पर्शवत्य आपः । ताश्च द्विविधा:- नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । ता पुनस्त्रिविधाः । शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः । उष्णस्पर्शवत्तेजः । तच्च द्विविधं नित्यमनित्यं च । नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम् । पुनस्त्रिविधं - शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । ankurnagpal108@gmail.com